Srimad Valmiki Ramayanam

Balakanda Chapter 17

Birth of Monkey chiefs through Devas !

With Sanskrit text in Devanagari , Telugu and Kannada

बालकांड
सप्त दश सर्गः

पुत्त्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम् ॥

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णो: सहायान् बलिनः सृजध्वं कामरूपिणः ॥

मायाविदश्च शूरांश्छ वायुवेगसमान् जने
नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् ॥

असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसंपन्नान् अमृतप्राशनानिव ॥

अप्सरस्सु च मुख्यासु गंधर्वीणां तनूष च ।
( यक्षपन्नगकन्यासु ऋक्षविद्याधरीषुच
किन्नरीणांच गात्रेषु वानरीणां तनूषु च)
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥

पूर्वमेव मया सृष्टो जांबवान् ऋक्षपुंगवः ।
जृंभमाणस्य सहसा मम वक्त्रा दजायत ॥

ते तथोक्त भगवता तत्प्रतिश्रुत्य शासनम् ।
जनयामासुरेवंते पुत्त्रान् वानररूपिणः ॥

ऋषयश्च महात्मनः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान् वीरान् ससृजुः वनचारिणः ॥

वानरेंद्रं महेंद्राभम् इंद्रो वालिनमूर्जितम् ।
सुग्रीवं जनयामास तपनः तपतां वरः ॥

बृहस्पति स्त्वजनयत् तारं नाम महाहरिम् ।
सर्ववानर मुख्यानां बुद्धिमंतं अनुत्तमम् ॥

धनदस्य सुतः श्रीमान् वानरो गंधमादनः ।
विश्वकर्मात्मजनयत् नळं नाम महा हरिम्॥

पावकस्य सुतः श्रीमान् नीलोsग्नि सदृशप्रभः ।
तेजसा यशसा वीर्यात् अत्यरिच्यत वानरान् ॥

रूपद्रविण संपन्नौ अश्विनौ रूपसम्मतौ ।
मैंदं च द्विविदं चैव जनयामासतुः स्वयम् ॥

वरुणो जनयामास सुषेणं वानरर्षभम् ।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥

मारुतस्यात्मजः श्रीमान् हनुमान्नम वीर्यवान् ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥
सर्ववानर मुख्येषु बुद्धिमान् बलवानपि ॥

ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ।

अप्रमेय बलावीराः विक्रांताः कामरूपिणः ।
मेरुमंदर संकाशा वपुष्मंतो महाबलाः ॥
ऋक्षवानर गोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।
अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥

गोलांगूलीषु चोत्पनाः केचित सम्मतविक्रमाः ।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥

देवामहर्षि गंधर्वाः तार् क्ष्या यक्षा यशस्विनः ।
नागाः किंपुरुषाश्चैव सिद्धविध्याधरोरगाः ॥

बहवो जनयामासुः हृष्टास्तत्र सहस्रसः ।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥

अप्सरस्सु च मुख्यासु तथा विध्याधरीषु च ।
नागकन्यासु च तथा गंधर्वीणां तनूषु च ॥

कामरूपबलोपेता यथाकामं विचारिणः ।
सिंहशार्दूल सदृशा दर्पेण च बलेन च ॥

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥

विचालयेयुः शैलेंद्रान् भेदयेयुः स्थिरान् द्रुमान् ।
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥

धारयेयुः क्षितिं पद्भ्यां अप्लवेयुर्महार्णवम् ।
नभः स्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥

गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने ।
नर्दमानाश्च नादेन पातयेयु र्विहंगमान् ॥

ईदृशानां प्रसूतानि हरीणां कामरूपिणां ।
शतं शतसहस्राणि यूधपानां महात्मनां ॥

ते प्रधानेषु यूधेषु हरीणां हरियूधपाः ।
बभूवुर्यूधपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥

अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहश्रसः ।
अन्ये नानाविधान् शैलान् भेजिरे काननानि च ॥

सूर्यपुत्रं च सुग्रीवं शकपुत्रं च वालिनं ।
भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ॥

नळं नीलं हनूमंतम् अन्यांश्च हरियूधपान् ।
ते तार् क्ष्यबलसंपन्नाः सर्वे युद्धविशारदाः ।
विचरंतोsर्दयन् दर्पात् सिंहव्याघ्र महोरगान् ॥

तांश्च सर्वान् महाबाहुः वाली विपुलविक्रमः ।
जुगोपभुजवीर्येण ऋक्षगोपुच्छवानरान् ॥

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविध संस्थानैः नानाव्यंजनलक्षणैः ॥

तै र्मेघबृंदाचलकूटकल्पैः
महाबलैः वानरयूधपालैः ।
बभूव भू र्भीमशरीररूपैः
समावृता रामशाय हेतोः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकांडे सपत दशस्सर्गः ॥
समाप्तं ॥


|| om tat sat ||